॥ मधुकैटभवधो नाम प्रथमोध्यायः ॥ |
॥ विनियोग ॥ |
अस्य श्री प्रधम चरित्रस्य ब्रह्मा ऋषिः । महाकाली |
देवता । गायत्री छन्दः । नन्दा शक्तिः । रक्त दन्तिका |
बीजम् । अग्निस्तत्वम् । ऋग्वेदः स्वरूपम् । |
श्री महाकाली प्रीत्यर्धे प्रधम चरित्र जपे विनियोगः । |
॥ ध्यानं ॥ |
खड्गं चक्र गदेषुचाप परिघा शूलं भुशुण्डीं शिरः |
शंङ्खं सन्दधतीं करैस्त्रिनयनां सर्वांङ्गभूषावृताम् । |
यां हन्तुं मधुकैभौ जलजभूस्तुष्टाव सुप्ते हरौ |
नीलाश्मद्युति मास्यपाददशकां सेवे महाकालिकां॥ |
ॐ नमश्चण्डिकायै |
ॐ ऐं मार्कण्डेय उवाच ॥१॥ |
सावर्णिः सूर्यतनयो योमनुः कथ्यतेSष्टमः। |
|
निशामय तदुत्पत्तिं विस्तराद्गदतो मम ॥२॥ |
महामायानुभावेन यथा मन्वन्तराधिपः |
स्वारोचिषेSन्तरे पूर्वं चैत्रवंशसमुद्भवः। |
स बभूव महाभागः सावर्णिस्तनयो रवेः ॥३॥ |
सुरथो नाम राजाSभूत् समस्ते क्षितिमण्डले ॥४॥ |
तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान्। |
तस्य तैरभवद्युद्धम् अतिप्रबलदण्डिनः। |
बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा ॥५॥ |
न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः ॥६॥ |
ततः स्वपुरमायातो निजदेशाधिपोSभवत्। |
अमात्यैर्बलिभिर्दुष्टै र्दुर्बलस्य दुरात्मभिः। |
आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः ॥७॥ |
कोशो बलं चापहृतं तत्रापि स्वपुरे ततः ॥८॥ |
ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः। |
सतत्राश्रममद्राक्षी द्द्विजवर्यस्य मेधसः। |
एकाकी हयमारुह्य जगाम गहनं वनम् ॥९॥ |
प्रशान्तश्वापदाकीर्ण मुनिशिष्योपशोभितम् ॥१०॥ |
तस्थौ कञ्चित्स कालं च मुनिना तेन सत्कृतः। |
सोSचिन्तयत्तदा तत्र ममत्वाकृष्टचेतनः। |
इतश्चेतश्च विचरंस्तस्मिन् मुनिवराश्रमे ॥११॥ |
मत्पूर्वैः पालितं पूर्वं मयाहीनं पुरं हि तत् ॥१२॥ |
मद्भृत्यैस्तैरसद्वृत्तैः र्धर्मतः पाल्यते न वा |
मम वैरिवशं यातः कान्भोगानुपलप्स्यते |
न जाने स प्रधानो मे शूर हस्तीसदामदः ॥१३॥ |
ये ममानुगता नित्यं प्रसादधनभोजनैः ॥१४॥ |
अनुवृत्तिं ध्रुवं तेSद्य कुर्वन्त्यन्यमहीभृतां |
सञ्चितः सोSतिदुःखेन क्षयं कोशो गमिष्यति |
असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययं ॥१५॥ |
एतच्चान्यच्च सततं चिन्तयामास पार्थिवः ॥१६॥ |
तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः |
सशोक इव कस्मात्वं दुर्मना इव लक्ष्यसे। |
स पृष्टस्तेन कस्त्वं भो हेतुश्च आगमनेSत्र कः ॥१७॥ |
इत्याकर्ण्य वचस्तस्य भूपतेः प्रणायोदितम् ॥१८॥ |
प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम् ॥१९॥ |
वैश्य उवाच ॥२०॥ |
समाधिर्नाम वैश्योSहमुत्पन्नो धनिनां कुले ॥२१॥ |
पुत्रदारैर्निरस्तश्च धनलोभाद् असाधुभिः |
|
विहीनश्च धनैदारैः पुत्रैरादाय मे धनम्। ॥२२॥ |
वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः |
प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः |
सोSहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम्। ॥२३॥ |
किं नु तेषां गृहे क्षेमम् अक्षेमं किंनु साम्प्रतं॥२४॥ |
कथं तेकिंनुसद्वृत्ता दुर्वृत्ता किंनुमेसुताः ॥२५॥ |
राजोवाच ॥२६॥ |
यैर्निरस्तो भवांल्लुब्धैः पुत्रदारादिभिर्धनैः ॥२७॥ |
तेषु किं भवतः स्नेह मनुबध्नाति मानसम् ॥२८॥ |
वैश्य उवाच ॥२९॥ |
एवमेतद्यथा प्राह भवानस्मद्गतं वचः ॥३०॥ |
किं करोमि न बध्नाति मम निष्टुरतां मनः |
पतिःस्वजनहार्दं च हार्दितेष्वेव मे मनः। |
ऐः सन्त्यज्य पितृस्नेहं धन लुब्धैर्निराकृतः ॥३१॥ |
किमेतन्नाभिजानामि जानन्नपि महामते ॥३२॥ |
यत्प्रेम प्रवणं चित्तं विगुणेष्वपि बन्धुषु |
|
तेषां कृते मे निःश्वासो दौर्मनस्यं चजायते ॥३३॥ |
अरोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ॥३४॥ |
माकण्डेय उवाच ॥३५॥ |
ततस्तौ सहितौ विप्र तंमुनिं समुपस्थितौ ॥३६॥ |
समाधिर्नाम वैश्योSसौ स च पार्धिव सत्तमः |
|
कृत्वा तु तौ यथान्याय्यं यथार्हं तेन संविदम्। ॥३७॥ |
उपविष्टौ कथाः काश्चित्च्चक्रतुर्वैश्यपार्धिवौ ॥३८॥ |
राजोउवाच ॥३९॥ |
भगव्ंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्वतत् ॥४०॥ |
दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना |
मआनतोSपि यथाज्ञस्य किमेतन्मुनिसत्तमः |
ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि ॥४१॥ |
अयं च इकृतः पुत्रैः दारैर्भृत्यैस्तथोज्घितः ॥४२॥ |
>
स्वजनेन च सन्त्यक्तः स्तेषु हार्दी तथाप्यति |
दृष्टदोषेSपि विषये ममत्वाकृष्टमानसौ |
एव मेष तथाहं च द्वावप्त्यन्तदुःखितौ। ॥४३॥ |
तत्केनैतन्महाभाग यन्मोहो ज्ञानिनोरपि ॥४४॥ |
ममास्य च भवत्येषा विवेकान्धस्य मूढता ॥४५॥ |
ऋषिरुवाच ॥४६॥ |
ज्ञान मस्ति समस्तस्य जन्तोर्व्षय गोचरे। ॥४७॥ |
विषयश्च महाभाग यान्ति चैवं पृथक्पृथक् |
|
दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे ॥४८॥ |
केचिद्दिवा तथा रात्रौ प्राणिनः स्तुल्यदृष्टयः |
यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः |
ज्ञानिनो मनुजाः सत्यं किं तु ते न हि केवलम् । ॥४९॥ |
ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणां ॥५०॥ |
मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः |
कणमोक्षादृतान् मोहात्पीड्यमानानपि क्षुधा |
ज्ञानेSपि सति पश्यैतान् पतगाञ्छाबचञ्चुषु। ॥५१॥ |
मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति ॥५२॥ |
लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि |
महामाया प्रभावेण संसारस्थितिकारिणा |
तथापि ममतावर्ते मोहगर्ते निपातिताः ॥५३॥ |
तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः। ॥५४॥ |
महामाया हरेश्चैषा तया सम्मोह्यते जगत् |
बलादाक्ष्यमोहाय महामाया प्रयच्छति |
ज्ङानिनामपि चेतांसि देवी भगवती हि सा ॥५५॥ |
तया विसृज्यते विश्वं जगदेतच्चराचरम्। ॥५६॥ |
सैषा प्रसन्ना वरदा नृणां भवति मुक्तये |
|
सा विद्या परमा मुक्तेर्हेतुभूता सनातनी ॥५७॥ |
संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी ॥५८॥ |
राजोवाच ॥५९॥ |
भगवन् काहि सा देवी मामायेति यां भवान् । ॥६०॥ |
ब्रवीति क्थमुत्पन्ना सा कर्मास्याश्च किं द्विज |
|
यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा। ॥६१॥ |
तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥६२॥ |
ऋषिरुवाच ॥६३॥ |
नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् ॥६४॥ |
तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां ममः |
उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते |
देवानां कार्यसिद्ध्यर्थम् आविर्भवति सा यदा। ॥६५॥ |
योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते। ॥६६॥ |
आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः |
विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ |
तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ। ॥६७॥ |
स नाभि कमले विष्णोः स्थितो ब्रह्मा प्रजापतिः ॥६८॥ |
दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम् |
विबोधनार्धाय हरेर्हरिनेत्रकृतालयाम् |
तुष्टाव योगनिद्रां तामेकाग्रहृदयः स्थितः ॥६९॥ |
विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्। ॥७०॥ |
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥७१॥ |
ब्रह्मोवाच ॥७२॥ |
त्वं स्वाहा त्वं स्वधा त्वंहि वषट्कारः स्वरात्मिका। ॥७३॥ |
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता |
|
त्वं स्वाहा त्वं स्वधा त्वंहि वषट्कारः स्वरात्मिका। ॥७३॥ |
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता |
त्वमेव सा त्वं सावित्री त्वं देव जननी परा |
अर्धमात्रा स्थिता नित्या यानुच्चार्याविशेषतः॥७४॥ |
त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत्। ॥७५॥ |
त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वदा |
तथा संहृतिरूपान्ते जगतोஉस्य जगन्मये |
विसृष्टौ सृष्टिरूपात्वं स्थिति रूपा च पालने।॥७६॥ |
महाविद्या महामाया महामेधा महास्मृतिः। ॥७७॥ |
महामोहा च भवती महादेवी महासुरी |
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा |
प्रकृतिस्त्वं च सर्वस्य गुणत्रय विभाविनी। ॥७८॥ |
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्भोधलक्षणा। ॥७९॥ |
लज्जापुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्ति रेव च |
शङ्खिणी चापिनी बाणाभुशुण्डीपरिघायुधा |
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा। ॥८०॥ |
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी ॥८१॥ |
परापराणां परमा त्वमेव परमेश्वरी |
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसेमया |
यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके। ॥८२॥ |
यया त्वया जगत् स्रष्टा जगत्पातात्ति यो जगत्। ॥८३॥ |
सोSपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः |
कारितास्ते यतोSतस्त्वां कः स्तोतुं शक्तिमान् भवेत् |
विष्णुः शरीरग्रहणम् अहमीशान एव च ॥८४॥ |
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता। ॥८५॥ |
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ |
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥८७॥ |
प्रबोधं च जगत्स्वामी नीयतामच्युता लघु ॥८६॥ |
|
ऋषिरुवाच ॥८८॥ |
एवं स्तुता तदा देवी तामसी तत्र वेधसा ॥८९॥ |
विष्णोः प्रभोधनार्धाय निहन्तुं मधुकैटभौ |
निर्गम्य दर्शने तस्थौ ब्रह्मणो अव्यक्तजन्मनः |
नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः। ॥९०॥ |
उत्तस्थौ च जगन्नाथः स्तया मुक्तो जनार्दनः। ॥९१॥ |
एकार्णवे अहिशयनात्ततः स ददृशे च तौ |
क्रोधरक्तेक्षणावत्तुं ब्रह्मणां जनितोद्यमौ |
मधुकैटभौ दुरात्माना वतिवीर्यपराक्रमौ ॥९२॥ |
समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः ॥९३॥ |
पञ्चवर्षसहस्त्राणि बाहुप्रहरणो विभुः |
उक्तवन्तौ वरोஉस्मत्तो व्रियतामिति केशवम् ॥९५॥ |
तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ॥९४॥ |
|
श्री भगवानुवाच ॥९६॥ |
भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ॥९७॥ |
किमन्येन वरेणात्र एतावृद्दि वृतं मम ॥९८॥ |
ऋषिरुवाच ॥९९॥ |
वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत्। ॥१००॥ |
विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः |
|
आवां जहि न यत्रोर्वी सलिलेन परिप्लुता। ॥१०१॥ |
ऋषिरुवाच ॥१०२॥ |
तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता। |
|
कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः ॥१०३॥ |
एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम्। | |
प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते ॥१०४॥ | |
॥ जय जय श्री स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमहात्म्ये मधुकैटभवधो नाम प्रथमोध्यायः ॥